शीतला-शान्ति प्रयोग—-वैदिक जगत—
क॰ “ॐ ह्रीं शीतलायै नमः” का १०० बार उच्चारण करते हुए श्वेत चन्दन-युक्त शत-पत्री-अर्क द्वारा शत-संख्यक अर्घ्य-दान करने से एक सप्ताह में शीतला-व्रण शान्त हो जाते हैं ।
ख॰ एक अन्य अव्यर्थ तथा शास्त्रीय प्रयोग निम्न प्रकार है –
इस प्रयोग में पहले ‘कलश-स्थापन’ करे । फिर उसके ऊपर ‘यन्त्र’ की स्थापना करे । तब उस यन्त्र में“ह्रीं शीतलायै ह्रीं” से शीतला देवी का आवाहन, पूजनादि करे । इसके बाद ‘ध्यान’ कर मन्त्र का ११ माला जप करे । तब ‘रहस्य’ का पाठ करे ।
स्वर्ण या चाँदी या ताँबे या पीले रेशमी वस्त्र पर यन्त्र बनाकर, उसे पीले वस्त्र से लपेटकर, कलश पर स्थापित करे । तदनन्तर स्नान, चन्दन, पुष्प, धूप, दीपादि उपचारों से यन्त्र का विधि-वत् पूजन करे । दधि, चिउड़ा आदि, लाजा और शर्करा का नैवेद्य प्रदान करे ।
ध्यानः-
दिग्-वासां मार्जिनिकां च सूर्पं, कर-द्वये सन्धतीं घनाभाम् ।
श्रीशीतलां सर्व-रुजार्ति-नष्टौ, पीतांग-राग-स्रजमर्चयामि ।।
इस प्रकार ध्यान कर जप करे । तब रहस्य का पाठ करे –
आदौ कृत-युगे ब्रह्मा, महेशं वाक्यमब्रवीत् । तवाज्ञाय दिव-सृष्टा, नाना-विधि-रताः प्रजाः ।।
समस्तैर्भू-स्तुतौ व्याप्ता, भवन्त्यन्येऽपि तद्-विद्याः । कामेन याति भार्या, सुपुनः सृष्टि प्रवर्द्धते ।।
गजैरश्वैर्मनुष्याद्यैः, व्याप्तेयं तु धराऽखिलाम् । शीघ्रं यास्यति पातालं तत्त्रैलोक्यं विधायताम् ।
एवं ब्रह्म-वचः श्रुत्वा, शूलमैक्षन् महेश्वरः । ततो जज्ञे पुमानेको, भीम-घोर-पराक्रमः ।
रक्तान्त-लोचनः क्रोधी, वडवाग्नि-युतो नरः । ऊर्घ्व-केशो ललज्जिह्वो, दृढ़हृत्को जितेन्द्रियः ।
तं दृष्टा तु महा-देवः, पार्वती वाक्यमब्रवीत् । जात एष महा-क्रूरः, सर्व-संहार-कारकः ।
एतस्य मोहनार्थाय, देही भार्या यथोचिता । एवं शिव-वचः श्रुत्वा, स्वकं पृष्ठं ददर्श ह ।
ततो देवी समुत्पन्ना, योच्यते भवितव्यता । रुप-लावण्य-सम्पन्ना, पीनोन्नत-पयोधरा ।
मारणास्त्रं मोहनास्त्रं, कराभ्यां दधती शुभा । श्वेत-वस्त्र-परीधाना, लज्जा-प्रवृत्त-लोचना ।
सा प्रणम्य तदा देवी, शिवयोरग्रतः स्थिता । शस्त्र-भार-भराक्रान्ता, काल-चित्त-विमोहिनी ।
दृष्ट्वा तां पार्वतीमाह, ममाज्ञा क्रियतामिति । कालस्य भव पत्नी, त्वमेतच्चित्तं विमोहय ।
वाचयस्व वरं श्रेष्ठं, कुरु कार्यं प्रजायतेः । ततः प्रीता तु तामाह, देव्यग्रे प्रणता स्थिता ।
ममाधीनमिदं विश्वं, ब्रह्म-विष्णु-शिवात्मकं । कालश्चायं ममाधीनः, कोपिमानं च वेत्स्यति ।
आब्रह्म-स्तम्ब-पर्यन्तं, विष्णो देव्यां च शूलिनि । दृष्टिर्मम समैवास्तु, मत्-स्वरुपा विदस्त्विमे ।
तथेत्युक्त्वा भवान्या सा, पाणि-ग्रहमंगीकरत् । कृत-कृत्योऽभवत् काल, उद्वाह्य भवितव्यताम् ।
कृतोद्वाहं तु तं ज्ञात्वा, विधाता वाक्यमब्रवीत् । शीघ्रमागम्यतां स्वामिन्सृष्टिः संहार्यतामिति ।
ततस्तु भृत्याः कालेन, रचिताः स्वस्य तेजसा । भवितव्यतया सहजी-कृताः स्वस्याभि-तेजसा ।
शेषो ज्वरः पांडु-सारो, श्वासः पानात्यपादिका । आभ्यंतराः परिचाराः शतशस्तेन निर्मिताः ।
सर्पा व्याघ्रा वकाः सिंहा, वृश्चिका राक्षसा गजाः । भूतप्रेतपिशाचाश्च, बाह्यतः परिचारकाः ।
तस्या आभ्यन्तराः सख्यः कामिनी मोहिनी तृषा, लक्ष्म्याहंकृति-बुद्धयादिनिद्रेच्छेर्ष्याभयादिकाः ।
ग्रहणी कामला सूची, छर्दिमूर्च्छाश्मरी तृषा । डाकिनी शाकिनी घोरेत्याद्या बाह्या भयादिकाः ।
एवं परिवृतं दृष्ट्वा। स्व-सैन्यमवचारयत् । मत्कोपोऽत्यधिको लोके, न जानन् भवितव्यताम् ।
ब्रह्म-विष्णु-महेशाद्या, हननीया मयाऽऽदितः । एवं विचार्य मनसि, महेशं हन्तुमुद्यतः ।
तं दृष्ट्वा तु महेशेन, शक्तिरेकामदर्शिता । अति-घोरा विरुपाक्षी, संकीर्ण-जघनोदरा ।
सन्दह्यमाना कोपेन, ज्वालयन्ती दिशो दश । तस्यास्तु दृष्टि-पातेन, कालः सर्वांगपीडितः ।
विस्फोटक-भवो दाहः, क्षिप्रं तस्य प्रशाम्यति । यस्त्वामुदक-मध्ये तु, धृत्वा पूजयते नरः ।
विस्फोटक-भयं घोरं, गृहे तस्य न जायते । शीतले ! ज्वर-दग्धस्य, पूति-गन्ध-गतस्य च ।
प्रनष्ट-चक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् । शीतले ! तनुजान् रोगान्, तृषां हरसि दुस्त्यजान् ।
विस्फोटक-विशीर्णानां, त्वमेकाऽमृत-वर्षिणी । गल-गण्ड-ग्रहा रोगा, ये चान्ये दारुणान् तृषां ।
त्वदनु-ध्यान-मात्रेण, शीतले ! यान्ति संक्षयं । न मन्त्रं नौषधं तत्र, पाप-रोगस्य विद्यते ।
त्वमेका शीतले ! धात्री, नान्यां पश्यामि देवतां । मृणाल-तंतु सदृशीं नाभिहृन्मध्य-संस्थिताम् ।
यस्त्वां सचिन्तयेद् देवि ! तस्य मृत्युर्न जायते । एवं स्तुता तदा देवी, शितला प्रीति-मानसा ।
उवाच वाक्यं कालाय, वरं वरय सत्वरम् ।
।। काल उवाच ।।
अहो अद्-भुत-माहात्म्यं, तव दृष्टं मयाऽधुना । पीडां मम तया क्षिप्रं, संहर्ण्य कुरु मे सदा ।
।। शीतलोवाच ।।
एषा तव जगत्-पुत्री, भार्येयं भवितव्यता । अस्याज्ञया प्रवर्तते, ब्रह्म-विष्णु-महेश्वराः ।
अहं त्वं च महेशाद्या, मनोऽधीनास्तु तन्मनः । बुद्धयाधीनं जायते सा, यादृशो भवितव्यता ।
साहाय्यं ते करिष्यामि, हरिष्यामि इमाः प्रजाः । उपोसको तु याखोदे, ददावुष्णं ततः खरं ।
तं गर्भ भक्षयिष्यामि, सोऽपि चेदुष्ण-भुग् भवेत् । सन्तुष्टा शीतलेनाहं, सदा तत्सेवितस्य च ।
प्रत्यहं या समश्नाति, मालत्यर्कमुपोदको । तस्या गर्भं न स्पृशामि, यावज्जीवं न संशयः ।
मम कोपेन सञ्जाते, दाहे मश्रु नरोत्तमः । दधि-भक्तं ब्राह्मणेभ्यो, यस्तुराभ्यः प्रदाय च ।
स्वयमश्नाति सप्ताहं, तस्य पीड़ा हराम्यहम् । अष्टकं हि ममैतद्धि, यः पठेन्मानवः सदा ।
विस्फोटक-भयं घोरं, कुले तस्य न जायते । श्रोतव्यं पठितव्यं च, नरैर्भक्ति-समन्वितैः ।
उपसर्ग-विनाशाय, परं स्वस्त्ययनं महत् । शीतलाऽष्टकमेतद्धि, न देयं यस्य कस्यचित् ।
दातव्यं सर्वदा तस्मै, भक्ति-श्रद्धान्वितो हि यः । एवमुक्त्वा ततः सर्वे, यथैव भवितव्यता ।
तथा लोकान् जिघांसन्ति, कालस्य वशमागताः । यो भुक्त्वा दधि-भक्ताशी, शीतला तन्न मारयेत् ।
चन्दनं वासको मुस्तं, गुडूची द्राक्षया सह । एषामर्को शीतलेति, शीतला-ज्वर-नाशनः ।