!श्री कृष्णानन्दस्तुतिः!!
सर्वशास्त्रार्थनिष्णातं निगमागमबोधकम् ।
श्री कृष्णाख्यं यतिश्रेष्ठं प्रणमामि पुनः पुनः ॥.
कृष्णानन्दं जगद्वन्द्यं कारुण्यामृतसागरम् ।
स्वात्मानन्दनिमग्नञ्च शिवसायुज्यसाधकम् ॥ .
जीवितं यस्य लोकायऽऽलोकायैव च जीवनम् ।
महादेव समं मान्यममान्यानपि मानदम् ॥ .
हार्दं लोकहितार्थाय मनोहारि च यद्वचः ।
राकेन्दुरिव दिव्याय भव्याय नमो नमः ॥ 4
काषायवस्त्रभूषाय मालारुद्राक्षधारिणे ।
श्री कृष्णानन्दसंज्ञाय गुरुणां गुरवे नमः ॥5
यतिमण्डलमार्तण्डमानन्दान्बुधिसन्निभम् ।
नमामि शिरसा देवं कृष्णानन्दं यतिं वरम् ॥6
अज्ञानतिमिरध्वान्तं विप्रकुलसमुद्भवम् ।
नमामि मनसा देवं कृष्णानन्दं यतिं वरम् ॥7
नमः परमहंसाय सुधीभिर्वन्दिताय च ।
श्री कृष्णानन्दसंज्ञाय गुरुणां गुरवे नमः ॥8
अष्टश्लोकी स्तुतिरेषा पुण्यानन्दविवर्धिनी ।
विरचिता ह्यनन्तेन गुरुदेव प्रसादतः ॥