शत्रु-विनाशक आदित्य-हृदय—
।। आदित्य हृदय स्तोत्रम् ।।
जब भगवान् राम रावण के साथ युद्ध करते-करते क्लान्त हो गए, तब तान्त्रिक अस्त्र-शस्त्रों के आविष्कारक ऋषि अगस्त्य ने आकर भगवान् राम से कहा कि ‘३ बार जल का आचमन कर, इस ‘आदित्य-हृदय’ का तीन बार पाठ कर रावण का वध करो ।’ राम ने इसी प्रकार किया, जिससे उनकी क्लान्ति मिट गई और नए उत्साह का सञ्चार हुआ । भीषण युद्ध में रावण मारा गया ।
रविवार को जब संक्रान्ति हो, उस दिन सूर्य-मन्दिर में, नव-ग्रह मन्दिर में अथवा अपने घर में सूर्य देवता के समक्ष इस स्तोत्र का ३ बार पाठ करें । न्यास, विनियोगादि संक्रान्ति के ५ मिनट पूर्व प्रारम्भ कर दें । प्रयोग के दिन बिना नमक का भोजन करें ।
‘कृत्य-कल्पतरु’ के अनुसार १०८ बार इसका पाठ करना चाहिए । जो लोग केवल तीन ही पाठ करें, वे १०८ बार ‘गायत्री-मन्त्र’ का जप अवश्य करें ।
विनियोगः- ॐ अस्य आदित्य-हृदय-स्तोत्रस्य-श्रीअगस्त्य ऋर्षिनुष्टुप्छन्दः आदित्य-हृदयभूतो भगवान श्रीब्रह्मा देवता, ॐ बीजं, रश्मि-मते शक्तिः, अभीष्ट-सिद्धयर्थे पाठे विनियोगः (वा)निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जय सिद्धौ च विनियोगः।
ऋष्यादिन्यासः- अगस्त्य ऋषये नमः शिरसि। अनुष्टुप छन्दसे नमः मुखे। ॐ आदित्य-हृदय-भूत-श्रीब्रह्मा देवतायै नमः हृदि। ॐ बीजाय नमः गुह्ये। ॐ रश्मिमते शक्तये नमः पादयोः। ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमही धियो यो नः प्रचोदयात् कीलकाय नमः नाभौ।
इस स्तोत्र के अंगन्यास और करन्यास तीन प्रकार से किये जाते हैं। केवल प्रणव से, गायत्री मन्त्र से अथवा `रश्मिमते नमः´ इत्यादि छः नाम मन्त्रों से। यहाँ नाम मन्त्रों से किये जाने वाले न्यास का प्रकार बतलाया गया है।
कर-न्यासः- ॐ रश्मिमते अंगुष्ठाभ्यां नमः। ॐ समुद्यते तर्जनीभ्यां नमः। ॐ देवासुर-नमस्कृताय मध्यमाभ्यां नमः। ॐ विवस्वते अनामिकाभ्यां नमः। ॐ भास्कराय कनिष्ठिकाभ्यां नमः। ॐ भुवनेश्वराय कर-तल-कर-पृष्ठाभ्यां नमः।
हृदयादि-न्यासः- ॐ रश्मिमते हृदयायं नमः। ॐ समुद्यते शिरसे स्वाहा। ॐ देवासुर-नमस्कृताय शिखायै वषट्। ॐ विवस्वते कवचाय हुम्। ॐ भास्कराय नेत्रत्रयाय वौषट्। ॐ भुवनेश्वराय अस्त्राय फट्।
इस प्रकार न्यास करके निम्न गायत्री मन्त्र से भगवान् सूर्य का ध्यान एवं नमस्कार करना चाहिये – “ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ।´´ तत्पश्चात् आदित्यहृदय का पाठ करना चाहिये –
।। पूर्व-पीठिका ।।
ततो युद्ध-परिश्रान्तं, समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा, युद्धाय समुपस्थितम् ।।.।।
दैवतैश्च समागम्य, द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद् रामगस्त्यो भगवांस्तदा ।।.।।
राम राम महाबहो ! श्रृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स ! समरे विजयिष्यसे ।।.
आदित्य-हृदयं पुण्यं, सर्व-शत्रु-विनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ।।4
सर्व-मंगल-मांगल्यं, सर्व-पाप-प्रणाशनम् ।
चिन्ता-शोक-प्रशमनमायुर्वर्धनमुत्तमम् ।।5
।। मूल-स्तोत्र ।।
रश्मिमन्तं समुद्यन्तं, देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं, भास्करं भुवनेश्वरम् ।।6
सर्व-देवात्मको ह्येष, तेजस्वी रश्मि-भावनः ।
एष देवासुर-गणाँल्लोकान् पाति गभस्तिभिः ।।7
एष ब्रह्मा च विष्णुश्च, शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो, यमः सोमो ह्यपाम्पतिः ।।8
पितरो वसवः साध्या, अश्विनो मरूतो मनुः ।
वायुर्विह्नः प्रजाः प्राण, ऋतु-कर्ता प्रभाकरः ।।9
आदित्यः सविता सूर्यः, खगः पूषा गभस्तिमान् ।
सुवर्ण-सदृशो भानुर्हिरण्यरेता दिवाकरः ।।1.
हरिदश्वः सहस्त्रार्चिः, सप्त-सप्तिर्मरीचि-मान् ।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशु-मान् ।।11
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः, शंखः शिशिर-नाशनः ।।12
व्योम-नाथस्तमो-भेदी, ऋग्यजुः साम-पारगः ।
घन-वृष्टिरपां मित्रो, विन्ध्य-वीथी-प्लवंगमः ।।13
आतपी मण्डली मृत्युः, पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजा, रक्तः सर्वभवोद्भवः ।।14
नक्षत्र-ग्रह-ताराणामधिपो विश्व-भावनः ।
तेजसामपि तेजस्वी, द्वादशात्मन् नमोऽस्तु ते ।।15
नमः पूर्वाय गिरये, पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये, दिनाधिपतये नमः ।।16
जयाय जय-भद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्त्रांशो, आदित्याय नमो नमः ।।17
नमः उग्राय वीराय, सारगांय नमो नमः ।
नमः पद्म-प्रबोधाय प्रचण्डाय, नमोऽस्तु ते ।।18
ब्रह्मेशानाच्युतेशाय, सूरायादित्य-वर्चसे ।
भास्वते सर्व-भक्षाय, रौद्राय वपुषे नमः ।।19
तमोघ्नाय हिमघ्नाय, शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय, ज्योतिषां पतये नमः ।।20
तप्त-चामीकराभाय, हरये विश्व-कर्मणे ।
नमस्तमोऽभिनिघ्नाय, रूचये लोकसाक्षिणे ।।21
नाशयत्येष वै भूतं, तमेव सृजति प्रभुः ।
पायत्येष तपत्येष, वर्षत्येष गभस्तिभिः ।।22
एष सुप्तेषु जागर्ति, भूतेषु परि-निष्ठितः ।
एष चैवाग्नि-होत्रं च, फलं चैवाग्नि-होतृणाम् ।।23
देवाश्च क्रतवश्चैव, क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु, सर्वेषु परम-प्रभुः ।।24
एनमापत्सु कृच्छ्रेषु, कान्तारेषु भयेषु च ।
कीर्तयन् पुरूषः कश्चिन्नावसीदति राघवः ! ।।25
पूजयस्वैनमेकाग्रों, देव-देवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्त्वा, युद्धेषु विजयिष्यसि ।।26
अस्मिन् क्षणे महाबाहो, रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो, जगाम स यथाऽऽगतम् ।।27
एतच्छ्रुत्वा महा-तेजा, नष्ट-शोकोऽभवत् तदा ।
धारयामास सु-प्रीतो, राघवः प्रयतात्मवान् ।।28
आदित्यं प्रेक्ष्य जप्त्वेदं, परं हर्षमवाप्त-वान् ।
त्रिराचम्य शुचिर्भूत्वा, धनुरादाय वीर्य-वान् ।।29
रावणं प्रेक्ष्य हृष्टात्मा, जयार्थं समुपागमत् ।
सर्व-यत्नेन महता वृतस्तस्य वधेऽभवत् ।।30
अथ रविरवदिन्नरीक्ष्य रामं मुदित-मनाः परमं प्रहृष्य-माणः ।
निशिचरपति-संक्षयं विदित्वा, सुर-गण-मध्य-गतो वचस्त्वरेति।।31
।।इति वाल्मीकीयरामयणे युद्धकाण्डे, अगस्त्यप्रोक्तमादित्यहृदयस्तोत्रं सम्पूर्णं।

LEAVE A REPLY

Please enter your comment!
Please enter your name here