!श्री कृष्णानन्दस्तुतिः!!
        सर्वशास्त्रार्थनिष्णातं  निगमागमबोधकम्  
श्री कृष्णाख्यं यतिश्रेष्ठं प्रणमामि पुनः पुनः ॥.
कृष्णानन्दं जगद्वन्द्यं कारुण्यामृतसागरम्  
स्वात्मानन्दनिमग्नञ्च शिवसायुज्यसाधकम्   .
जीवितं यस्य लोकायऽऽलोकायैव च जीवनम् ।
महादेव समं मान्यममान्यानपि मानदम्   .
हार्दं लोकहितार्थाय मनोहारि च यद्वचः  
राकेन्दुरिव दिव्याय भव्याय नमो नमः   4
काषायवस्त्रभूषाय मालारुद्राक्षधारिणे  
श्री कृष्णानन्दसंज्ञाय गुरुणां गुरवे  नमः  5
यतिमण्डलमार्तण्डमानन्दान्बुधिसन्निभम्  
नमामि शिरसा देवं  कृष्णानन्दं यतिं वरम् ॥6
अज्ञानतिमिरध्वान्तं विप्रकुलसमुद्भवम् ।
नमामि मनसा देवं कृष्णानन्दं यतिं वरम्  7
नमः परमहंसाय सुधीभिर्वन्दिताय च  
श्री कृष्णानन्दसंज्ञाय गुरुणां गुरवे  नमः  8
अष्टश्लोकी  स्तुतिरेषा पुण्यानन्दविवर्धिनी ।
      विरचिता ह्यनन्तेन गुरुदेव प्रसादतः   

LEAVE A REPLY

Please enter your comment!
Please enter your name here